वांछित मन्त्र चुनें

श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒: कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

अंग्रेज़ी लिप्यंतरण

śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ | pra trasadasyum āvitha tvam eka in nṛṣāhya indra kṣatrāṇi vardhayan ||

पद पाठ

श्या॒वऽअ॑श्वस्य । रेभ॑तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः । प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥ ८.३७.७

ऋग्वेद » मण्डल:8» सूक्त:37» मन्त्र:7 | अष्टक:6» अध्याय:3» वर्ग:19» मन्त्र:7 | मण्डल:8» अनुवाक:5» मन्त्र:7